[Advaita-l] A replica of Adhyasa Bhashya in the Gita Bhashya 13.26
V Subrahmanian
v.subrahmanian at gmail.com
Thu Apr 30 00:15:20 EDT 2020
In the sequel, the two relevant bhashyas are cited. I request those who
require the translation to kindly look into the Swami Gambhirananda's
works. For want of time I am not giving these here.
The gist of this post is: the jiva bhaava is due to adhyasa, anyonyadhyasa.
The Kshetrajna, Atman, and the kshetra, anatman (body-mind complex) are
mixed up to bring about the jiva-idea. This admixture is impossible unless
by adhyasa. (The Bhagavatam too says that the body idea is adhyasa).
First, the Gita context and bhashya:
क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनम् ‘यज्ज्ञात्वामृतमश्नुते’ (भ.
गी. १३ । १२)
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V12&hl=%E0%A4%AF%E0%A4%9C%E0%A5%8D%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%AE%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A5%81%E0%A4%A4%E0%A5%87>
इत्युक्तम् , तत् कस्मात् हेतोरिति, तद्धेतुप्रदर्शनार्थं श्लोकः आरभ्यते *—*
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥
यावत् यत् किञ्चित् सञ्जायते समुत्पद्यते सत्त्वं वस्तु ; किम् अविशेषेण ?
नेत्याह — स्थावरजङ्गमं स्थावरं जङ्गमं च क्षेत्रक्षेत्रज्ञसंयोगात् तत् जायते
इत्येवं विद्धि जानीहि भरतर्षभ ॥
कः पुनः अयं क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेतः ? न तावत् रज्ज्वेव घटस्य
अवयवसंश्लेषद्वारकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति,
आकाशवत् निरवयवत्वात् । नापि समवायलक्षणः तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोः
इतरेतरकार्यकारणभावानभ्युपगमात् इति, उच्यते — क्षेत्रक्षेत्रज्ञयोः विषय
विषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्र
क्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः, रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावात्
अध्यारोपितसर्परजतादिसंयोगवत् । सः अयं अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगः
मिथ्याज्ञानलक्षणः । यथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं
प्राक् दर्शितरूपात् क्षेत्रात् मुञ्जादिव इषीकां यथोक्तलक्षणं क्षेत्रज्ञं
प्रविभज्य ‘न सत्तन्नासदुच्यते’ (भ. गी. १३ । १२)
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V12&hl=%E0%A4%A8%20%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%A6%E0%A5%81%E0%A4%9A%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87>
इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं च
मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत् ‘असदेव सदिव अवभासते’ इति
एवं निश्चितविज्ञानः यः, तस्य यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति
मिथ्याज्ञानम् ।
Here is the adhyasa bhashya part:
युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतर
भावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः — इत्यतः
अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य
तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मि
थ्येति भवितुं युक्तम् । तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चा
ध्यस्येतरेतराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः
सत्यानृते मिथुनीकृत्य ‘अहमिदम्’ ‘ममेदम्’ इति नैसर्गिकोऽयं लोकव्यवहारः ॥
A lovely mananam exercise.
regards
subbu
More information about the Advaita-l mailing list