[Advaita-l] वार्त्तिककारीयजीवलक्षणस्य मूलम् अद्ध्यात्मरामायणम्

श्रीमल्ललितालालितः lalitaalaalitah at lalitaalaalitah.com
Tue Aug 25 05:49:10 EDT 2020


*अज्ञानोपहित आत्मा अज्ञानतादात्म्यापन्नः स्वचिदाभासाविदेकाद् अन्तर्यामी
साक्षी ईश्वरः जगत्कारणम् इति च कत्थ्यते ;*
*बुद्ध्युपहितश्च तत्तादात्म्यापन्नः स्वचिदाभासाविवेकाद् जीवः कर्त्ता भोक्ता
प्रमाता इति च कत्थ्यते*
*इति वार्त्तिककारपादाः ।*
इति मधुसूदनसरस्वत्यो वदन्ति ।

तन्मतस्य मूलं तु *अद्ध्यात्मरामायणमेव* । तथाहि तत्र *बालकाण्डे प्रथमसर्ग्गे
*---
















*ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् । शृणु तत्त्वं प्रवक्ष्यामि
ह्यात्मानात्मपरात्मनाम् .. ४४.. आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।
जलाशये महाकाशस्तदवच्छिन्न एव हि . प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः ..
४५.. बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् . आभासस्त्वपरं बिम्बभूतमेवं
त्रिधा चितिः .. ४६.. साभासबुद्धेः कर्तृत्वमवच्छिन्नेऽविकारिणि .
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः .. ४७.. आभासस्तु मृषा
बुद्धिरविद्याकार्यमुच्यते . अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः
.. ४८.. अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते . तत्त्वमस्यादिवाक्यैश्च
साभासस्याहमस्तथा .. ४९.. ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः .
तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः .. ५०.. एतद्विज्ञाय मद्भक्तो
मद्भावायोपपद्यते . मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्य*ताम् .
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि .. ५१..

*श्रीमल्ललितालालितः*www.lalitaalaalitah.com


More information about the Advaita-l mailing list