[Advaita-l] Are there two entities or one in the Body? A glimpse of Adhyasa bhashya in the BSB 1.2.20

V Subrahmanian v.subrahmanian at gmail.com
Thu Mar 12 04:04:25 EDT 2020


In the Brahma sutra bhashya 1.2.20 there is a discussion on 'whether there
are two sentient entities in the body or only one?'  The question is
addressed in the bhashyam below:  I tried to copy the Swami Gambhirananda
translation but could not. Kindly see a hard copy of the book for
translation. In this bhashya, while concluding that there is only one
Consciousness, Brahman, in the body, the 'other' is only the adhyasta
abhimani sentient entity. Since the Br.Up. teaches 'there is no seer,
hearer, etc. other than the Antaryami Brahman', this is the only
Consciousness in the body.

Also, the Upanishads and Gita teach the impeller is Consciousness, Brahman,
and the impelled are the indiryas, manas, etc. insentient beings. So,
strictly, a jiva-consciousness cannot be impelled by Brahman. Finally, jiva
is a non-entity, Brahman alone is.

In the following Bhashya excerpt, one line:

// तश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो
विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते ।  // is a rephrasing/ restating
of the Adhyasa Bhashya statement:

//  तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे
प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि च शास्त्राणि
विधिप्रतिषेधमोक्षपराणि । कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि
शास्त्राणि चेति,//

Read here the excerpt from BSB 1.2.20:

यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसम्भवान्नान्तर्याम्यभ्युपगम्यते,
शारीरस्तर्ह्यन्तर्यामी भवतु । शारीरो हि चेतनत्वाद्द्रष्टा श्रोता मन्ता
विज्ञाता च भवति, आत्मा च प्रत्यक्त्वात् । अमृतश्च, धर्माधर्मफलोपभोगोपपत्तेः
 । अदृष्टत्वादयश्च धर्माः शारीरे सुप्रसिद्धाः ; दर्शनादिक्रियायाः कर्तरि
प्रवृत्तिविरोधात् , ‘न दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S04_V02&hl=%E0%A4%A8%20%E0%A4%A6%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%87%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%B0%E0%A4%82%20%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%83>
 इत्यादिश्रुतिभ्यश्च । तस्य च कार्यकरणसङ्घातमन्तर्यमयितुं शीलम् ,
भोक्तृत्वात् । तस्माच्छारीरोऽन्तर्यामीत्यत उत्तरं पठति —

शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥
नेति पूर्वसूत्रादनुवर्तते । शारीरश्च नान्तर्यामी स्यात् । कस्मात् ? यद्यपि
द्रष्टृत्वादयो धर्मास्तस्य सम्भवन्ति, तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न
कार्त्स्न्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं च शक्नोति । अपि चोभयेऽपि हि
 शाखिनः काण्वा माध्यन्दिनाश्चान्तर्यामिणो भेदेनैनं शारीरं
पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयते — ‘यो विज्ञाने तिष्ठन्’ (बृ.
उ. ३ । ७ । २२)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S07_V22&hl=%E0%A4%AF%E0%A5%8B%20%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%A4%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%A8%E0%A5%8D>
 इति काण्वाः । ‘य आत्मनि तिष्ठन्’ इति माध्यन्दिनाः । ‘य आत्मनि तिष्ठन्’
इत्यस्मिंस्तावत् पाठे भवत्यात्मशब्दः शारीरस्य वाचकः । ‘यो विज्ञाने तिष्ठन्’
इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते, विज्ञानमयो हि शारीर इति ।
तस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम् । कथं पुनरेकस्मिन्देहे द्वौ
द्रष्टारावुपपद्येते — यश्चायमीश्वरोऽन्तर्यामी, यश्चायमितरः शारीरः ? का पुनरि
हानुपपत्तिः ? ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिश्रुतिवचनं विरुध्येत । अत्र हि
 प्रकृतादन्तर्यामिणोऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं
प्रतिषेधति । नियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमिति चेत् , न ;
नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्च । अत्रोच्यते —
अविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तोऽयं
शारीरान्तर्यामिणोर्भेदव्यपदेशः, न पारमार्थिकः । एको हि प्रत्यगात्मा भवति, न
द्वौ प्रत्यगात्मानौ सम्भवतः । एकस्यैव तु भेदव्यवहार उपाधिकृतः, यथा घटाकाशो
महाकाश इति । ततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि च प्रमाणानि
संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते । तथा च श्रुतिः — ‘
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ इत्यविद्याविषये सर्वं व्यवहारं
दर्शयति । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति विद्याविषये
सर्वं व्यवहारं वारयति ॥ २० ॥
regards
subbu


More information about the Advaita-l mailing list