[Advaita-l] Regarding the term akhandakaravritti
Sudhanshu Shekhar
sudhanshu.iitk at gmail.com
Fri Aug 8 02:56:02 EDT 2025
Namaste.
Please see GItA bhAshya 18.50:
Opponent: ननु विषयाकारं ज्ञानम् । न ज्ञानविषयः, नापि आकारवान् आत्मा इष्यते
क्वचित् ।.........तस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नम् ॥
Answer:
कथं तर्हि आत्मनः ज्ञानम् ? सर्वं हि यद्विषयं यत् ज्ञानम् , तत् तदाकारं
भवति । निराकारश्च आत्मा इत्युक्तम् । ज्ञानात्मनोश्च उभयोः निराकारत्वे
कथं तद्भावनानिष्ठा इति ? न ;
अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः आत्मनः । बुद्धेश्च
आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्याकाराभासत्वोपपत्तिः ।
बुद्ध्याभासं मनः, तदाभासानि इन्द्रियाणि, इन्द्रियाभासश्च देहः । अतः
लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते ॥
Regards.
Sudhanshu Shekhar.
More information about the Advaita-l mailing list