[Advaita-l] Mallinatha Vedanta Vaidushyam an essay (partial) by M M Goda Subrahmanya Shastri garu
Maha Ramaswamy
maharamaswamy at gmail.com
Mon Mar 24 11:42:05 EDT 2025
श्री गुरुचरणारविन्दाभ्यां नमः
शुद्धान्तःकरणं शुचि स्मित मुखं मुण्डो त्तमाङ्गं दया सिन्धुं शिष्य परंपरा
वलयितं भूत्युल्लसत् फालकं ।
वेदान्तानुग तर्क कर्कश गिरां अग्रेसरं भूसुरं सुब्रह्मण्य गुरुं सदा हृदि भजे
गोडेत्युपाह्वम् मुदा ।।
प्रातः स्मरणीय मदीयगुरुचरण म म शास्त्ररत्न ब्रह्मश्री गोडा
सुब्रह्मण्यशास्त्री विरचितं
' मल्लिनाथस्य वेदान्त वैदुष्यं ' इति लघु लेखास्थं किञ्चित् विदुषां तोषाय
प्रस्तूयते ।
त्वं पितॄणामपि पिता देवानामपि देवता ।
परतो ऽपि परश्चासि विधाता वेधसामपि ॥ .
कालिदासः कुमारसम्भवम् - २ सर्गः - १४ श्लोकः
अन्वयः (हे भगवन् !) त्वं पितॄणाम् अपि पिता, देवानाम् अपि देवता, परतोऽपि
परः, वेधसाम् अपि विधाता च असि ।
हे भगवन्, त्वं पितॄणामाग्निष्वात्तादीनामपि पिता । तेषामपि तर्पणीय इत्यर्थः
। परतोऽपि परश्चासि । सर्वोत्तरोऽसीत्यर्थः । `इन्द्रियेभ्यः परा ह्यर्था
अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महास्ततः ।महतः
परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥` इति
सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्त्रष्टासि
मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ।। ३.५० ।।
अन्वयः- नवद्वारनिषिद्धवृत्ति समाधिवश्यं मनो हृदि व्यवस्थाप्य
क्षेत्रविदः यम् अक्षरं विदुः तम् आत्मानम् आत्मनि अवलोकयन्तम् (तं ददर्श)।
मल्लि- मन इति । नवभ्यो द्वारेभ्यो निषिद्धा निवर्तिता वृत्तिः संचारो
यस्य तत्तथोक्तम् । समाधिना प्रणिधानेन वश्यं वशंगतम् । यत्प्रत्ययः ।
`प्रणिधानं समाधानं समाधिश्च समाश्रयः' इति हलायुधः । मनो हृदि
हृदयाख्येऽधिष्ठाने व्यवस्थाप्य । तथा च वसिष्ठः- `यतो निर्याति
विषयान्यस्मंश्चैव प्रलीयते । हृदयं तद्विजानीयान्मनसः स्थितिकारणम् ।।' इति ।
क्षेत्रविदः क्षेत्रज्ञाः पुरुषाः । यं न क्षरतीत्यक्षरमविनाशिनं
विदुर्विदन्ति । `विदो लटो वा ' इति झेर्जुस् । तमात्मानमात्मनि
स्वस्मिन्नवलोकयन्तं साक्षात्कुर्वन्तम् । स्वातिरेकेण परमात्मनोऽभावादिति
भावः ।। ३.५० ।।
कालिदासः कुमारसम्भवम् - ७ सर्गः ४४ श्लोकः
एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् ।
विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ।।
मल्लिनाथः
अन्वयः- सा एका एव मूर्तिः त्रिधा बिभिदे । एषां प्रथमाऽवरत्वं सामान्यम्
। कदाचित् हरः विषणोः अद्यः, कदाचित् हरिः तस्य आद्यः, कदाचित् वेधाः तयोः
आद्यः, कदाचित् तौ द्वो अपि धातुः आद्यौ ।
- एकैवेति । सैकैव मूर्तिस्त्रिघा ब्रह्मविष्णुशिवात्मकत्वेन बिभिदे ।
औपाधिकोऽयं भेदो न वास्तविक इत्यर्थः । अत एवैषां त्रयाणां प्रथमावरयोर्भावः
प्रथमावरत्वं ज्येष्ठकनिष्ठभावः । सामान्यं साधारणम् । इच्छया सर्वे ज्येष्ठा
भवन्ति कनिष्ठाश्चेत्यर्थः । एतदेव विवृणोति-कदाचिद्धरो विष्णोराद्यः ।
कदाचिद्धरिस्तस्याद्यः । कदाचिद्वेधास्तथोर्हरिहरयोराद्यः । कदाचित्तौ
हरिहरावपि धातुः स्त्रष्टुराद्यौ । एवमेतेषां पौर्वापर्यमनियतमिति दर्शितम् ।।
श्रीहर्षः नैषधीयचरितम् ५ सर्गः २३ श्लोकः
श्रीभरानतिथिसात्करवाणि खोपभोगपरता न हितेति ।
पश्यतो बहिरिवान्तरपीयं दृष्टिसृष्ठिरधिका तव कापि ॥
श्रीति ॥ हे इन्द्र, इति अन्तरपि अन्तःकरणेऽपि बहिरिव बहिर्देश इव पश्यतो
जानतोऽवलोकयतश्च तवैवेयं वर्णयितुमशक्या अधिका भूयसी काप्यनिर्वचनीया
दृष्टिसृष्टिनिसृष्टिश्च । इति किम्-अहं
श्रीभराञ्श्रीसमूहानतिथिसाद्देयत्वेनातिथ्यधीनान् करवाणि कुर्याम् । तथा
स्वोपभोगपरता आत्मन एवोपभोगतात्पर्यं हिता न श्रेयस्करं न भवतीति । यथा
बहिर्बहुभिर्नेत्रैः सर्वमवलोकयसि, तथान्तःकरणेऽपि सर्वं करणीयं
ज्ञानदृष्ट्यावलोकयसि, एवंविधस्त्वमेव नान्य इति भावः।
'दृष्टिार्ज्ञानेऽक्ष्णि दर्शने' इत्यमरः॥
श्रीहर्षः नैषधीयचरितम् २१ सर्गः १०८ श्लोकः
वस्तु वास्तु घटते न भिदाना यौक्तनैकविधबाधविरोधैः ।
तत्वदीहितविजृम्भिततत्तद्भेदमेतदिति तत्त्वनिरुक्तिः ॥
वस्त्विति ॥ हे विष्णो, घटपटादिवस्तुजातं
यौक्तैर्युक्तिसंबन्धिभिर्युक्तिकृतैर्न्यायोत्थैर्नैकविधैर्वहुप्रकारैर्बाधैः
साधारणदूषणैः तथा
विरोधैर्ब्रह्माद्वैतप्रतिपादकसर्वोपनिषद्वाक्यवैपरीत्यरूपैरसाधारणदूषणैः,
यद्वा-नैकविधान् भिन्नान् घटपटादीन् बाधन्ते इति
नैकविधवाधास्तथाभूतविरोधैर्हेतुभिरिदमस्माद्भिन्नमित्येवं विशेषणत्वेन
प्रतीयमानानां भिदानां वास्तु आधारो (वस्तु पदार्थो) न घटते न प्रयुज्यते ।
किंत्वभिन्नं ब्रह्माद्वैतमेव घटत इत्यर्थः । तर्हि भेदप्रतीतेः का गतिरित्यत
आह-तदिति । तस्मादक्तहेतुभिर्भेदस्तद्विशिष्टं वस्तु वा न घटते
तस्मादनिर्वाच्यानाद्यविद्यारूपेण त्वदीहितेन, अनिर्वचनीयत्वादिनातिप्रसिद्धेन
त्वदीहितेन वा करणेन कर्तृणा वा विजृम्भितः प्रकटीभूतः कृतो
वाविद्यमानोऽप्यारोप्यत्वेन प्रत्यायितः स स घटादिरूपो भेदो यस्य
तादृशमेतद्वस्तुजातमित्येवं तत्त्वस्य प्रामाणिकस्यार्थस्य निरुक्तिनिर्वचनं
निश्चितोक्तिः। अभेदर्शनोक्तयुक्तिशतवाधात्तत्तच्छ्रुतिविरोधाच्च तत्त्वतो
वस्तुभेदाभावे प्रतिभासमानस्य च भेदस्य द्विचन्द्रवुद्धिवप्रामाणिकत्वे
सकलमिदं जगदभिन्नमिति श्रवणमननादिक्रमेण संजातभवत्साक्षात्कारस्य
सच्चिदानन्दघनस्त्वमेकः, नतु त्वदतिरिक्तं किंचिदिति वोधः समुदेतीति
तत्त्वनिर्णय इति भावः। एतेन 'तत्त्वमसि' इत्याद्युपनिषदार्थोपि संगृहीत इति
ञेयम् । योक्तेति संबन्धेऽण् । युक्त्यन्तरं ग्रन्थान्तरात्सुधिया बोद्धव्यम्
। विस्तरभयादत्र न लिखितम् ॥
श्रीहरिहरार्पणमस्तु
गुरुचरणकृपा
रामस्वामि शर्मा
वैदिकसत्सङ्गः
vedicsatsang.org
More information about the Advaita-l mailing list