[Advaita-l] Mallinatha Vedanta Vaidushyam an essay (partial) by M M Goda Subrahmanya Shastri garu

V Subrahmanian v.subrahmanian at gmail.com
Mon Mar 24 12:25:15 EDT 2025


Thanks for posting this excerpt from the Mallinatha commentary to the
Kumarasambhavam and Naishadhiya Charitam.  Please post the entire write-up,
in parts at least over a few instalments.

warm regards
subbu

On Mon, Mar 24, 2025 at 9:12 PM Maha Ramaswamy via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> श्री गुरुचरणारविन्दाभ्यां नमः
> शुद्धान्तःकरणं शुचि स्मित मुखं मुण्डो त्तमाङ्गं दया सिन्धुं शिष्य परंपरा
> वलयितं भूत्युल्लसत् फालकं ।
> वेदान्तानुग तर्क कर्कश गिरां अग्रेसरं भूसुरं सुब्रह्मण्य गुरुं सदा हृदि भजे
> गोडेत्युपाह्वम् मुदा ।।
>
> प्रातः स्मरणीय मदीयगुरुचरण   म म शास्त्ररत्न ब्रह्मश्री गोडा
> सुब्रह्मण्यशास्त्री विरचितं
>  ' मल्लिनाथस्य वेदान्त वैदुष्यं '  इति लघु लेखास्थं किञ्चित् विदुषां तोषाय
> प्रस्तूयते ।
>
>
> त्वं पितॄणामपि पिता देवानामपि देवता ।
> परतो ऽपि परश्चासि विधाता वेधसामपि ॥ .
> कालिदासः कुमारसम्भवम् - २ सर्गः - १४ श्लोकः
> अन्वयः  (हे भगवन् !) त्वं पितॄणाम् अपि पिता, देवानाम् अपि देवता, परतोऽपि
> परः, वेधसाम् अपि विधाता च असि ।
>  हे भगवन्, त्वं पितॄणामाग्निष्वात्तादीनामपि पिता । तेषामपि तर्पणीय इत्यर्थः
> । परतोऽपि परश्चासि । सर्वोत्तरोऽसीत्यर्थः । `इन्द्रियेभ्यः परा ह्यर्था
> अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महास्ततः ।महतः
> परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥` इति
> सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्त्रष्टासि
>
> मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
> यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ।। ३.५० ।।
>
>      अन्वयः- नवद्वारनिषिद्धवृत्ति समाधिवश्यं मनो हृदि व्यवस्थाप्य
> क्षेत्रविदः यम् अक्षरं विदुः तम् आत्मानम् आत्मनि अवलोकयन्तम् (तं ददर्श)।
>      मल्लि- मन इति । नवभ्यो द्वारेभ्यो निषिद्धा निवर्तिता वृत्तिः संचारो
> यस्य तत्तथोक्तम् । समाधिना प्रणिधानेन वश्यं वशंगतम् । यत्प्रत्ययः ।
> `प्रणिधानं समाधानं समाधिश्च समाश्रयः' इति हलायुधः । मनो हृदि
> हृदयाख्येऽधिष्ठाने व्यवस्थाप्य । तथा च वसिष्ठः- `यतो निर्याति
> विषयान्यस्मंश्चैव प्रलीयते । हृदयं तद्विजानीयान्मनसः स्थितिकारणम् ।।' इति ।
> क्षेत्रविदः क्षेत्रज्ञाः पुरुषाः । यं न क्षरतीत्यक्षरमविनाशिनं
> विदुर्विदन्ति । `विदो लटो वा ' इति झेर्जुस्‌ । तमात्मानमात्मनि
> स्वस्मिन्नवलोकयन्तं साक्षात्कुर्वन्तम् । स्वातिरेकेण परमात्मनोऽभावादिति
> भावः ।। ३.५० ।।
>
> कालिदासः कुमारसम्भवम् -   ७ सर्गः ४४ श्लोकः
>
> एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् ।
> विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ।।
> मल्लिनाथः
>      अन्वयः- सा एका एव मूर्तिः त्रिधा बिभिदे । एषां प्रथमाऽवरत्वं सामान्यम्
> । कदाचित् हरः विषणोः अद्यः, कदाचित् हरिः तस्य आद्यः, कदाचित् वेधाः तयोः
> आद्यः, कदाचित् तौ द्वो अपि धातुः आद्यौ ।
>  - एकैवेति । सैकैव मूर्तिस्त्रिघा ब्रह्मविष्णुशिवात्मकत्वेन बिभिदे ।
> औपाधिकोऽयं भेदो न वास्तविक इत्यर्थः । अत एवैषां त्रयाणां प्रथमावरयोर्भावः
> प्रथमावरत्वं ज्येष्ठकनिष्ठभावः । सामान्यं साधारणम् । इच्छया सर्वे ज्येष्ठा
> भवन्ति कनिष्ठाश्चेत्यर्थः । एतदेव विवृणोति-कदाचिद्धरो विष्णोराद्यः ।
> कदाचिद्धरिस्तस्याद्यः । कदाचिद्वेधास्तथोर्हरिहरयोराद्यः । कदाचित्तौ
> हरिहरावपि धातुः स्त्रष्टुराद्यौ । एवमेतेषां पौर्वापर्यमनियतमिति दर्शितम् ।।
>
>
> श्रीहर्षः नैषधीयचरितम् ५ सर्गः  २३ श्लोकः
>    श्रीभरानतिथिसात्करवाणि खोपभोगपरता न हितेति ।
>   पश्यतो बहिरिवान्तरपीयं दृष्टिसृष्ठिरधिका तव कापि ॥
>
>  श्रीति ॥ हे इन्द्र, इति अन्तरपि अन्तःकरणेऽपि बहिरिव बहिर्देश इव पश्यतो
> जानतोऽवलोकयतश्च तवैवेयं वर्णयितुमशक्या अधिका भूयसी काप्यनिर्वचनीया
> दृष्टिसृष्टिनिसृष्टिश्च । इति किम्-अहं
> श्रीभराञ्श्रीसमूहानतिथिसाद्देयत्वेनातिथ्यधीनान् करवाणि कुर्याम् । तथा
> स्वोपभोगपरता आत्मन एवोपभोगतात्पर्यं हिता न श्रेयस्करं न भवतीति । यथा
> बहिर्बहुभिर्नेत्रैः सर्वमवलोकयसि, तथान्तःकरणेऽपि सर्वं करणीयं
> ज्ञानदृष्ट्यावलोकयसि, एवंविधस्त्वमेव नान्य इति भावः।
> 'दृष्टिार्ज्ञानेऽक्ष्णि दर्शने' इत्यमरः॥
>
> श्रीहर्षः नैषधीयचरितम् २१ सर्गः  १०८ श्लोकः
> वस्तु वास्तु घटते न भिदाना यौक्तनैकविधबाधविरोधैः ।
> तत्वदीहितविजृम्भिततत्तद्भेदमेतदिति तत्त्वनिरुक्तिः ॥
>
>  वस्त्विति ॥ हे विष्णो, घटपटादिवस्तुजातं
> यौक्तैर्युक्तिसंबन्धिभिर्युक्तिकृतैर्न्यायोत्थैर्नैकविधैर्वहुप्रकारैर्बाधैः
> साधारणदूषणैः तथा
> विरोधैर्ब्रह्माद्वैतप्रतिपादकसर्वोपनिषद्वाक्यवैपरीत्यरूपैरसाधारणदूषणैः,
> यद्वा-नैकविधान् भिन्नान् घटपटादीन् बाधन्ते इति
> नैकविधवाधास्तथाभूतविरोधैर्हेतुभिरिदमस्माद्भिन्नमित्येवं विशेषणत्वेन
> प्रतीयमानानां भिदानां वास्तु आधारो (वस्तु पदार्थो) न घटते न प्रयुज्यते ।
> किंत्वभिन्नं ब्रह्माद्वैतमेव घटत इत्यर्थः । तर्हि भेदप्रतीतेः का गतिरित्यत
> आह-तदिति । तस्मादक्तहेतुभिर्भेदस्तद्विशिष्टं वस्तु वा न घटते
> तस्मादनिर्वाच्यानाद्यविद्यारूपेण त्वदीहितेन, अनिर्वचनीयत्वादिनातिप्रसिद्धेन
> त्वदीहितेन वा करणेन कर्तृणा वा विजृम्भितः प्रकटीभूतः कृतो
> वाविद्यमानोऽप्यारोप्यत्वेन प्रत्यायितः स स घटादिरूपो भेदो यस्य
> तादृशमेतद्वस्तुजातमित्येवं तत्त्वस्य प्रामाणिकस्यार्थस्य निरुक्तिनिर्वचनं
> निश्चितोक्तिः। अभेदर्शनोक्तयुक्तिशतवाधात्तत्तच्छ्रुतिविरोधाच्च तत्त्वतो
> वस्तुभेदाभावे प्रतिभासमानस्य च भेदस्य द्विचन्द्रवुद्धिवप्रामाणिकत्वे
> सकलमिदं जगदभिन्नमिति श्रवणमननादिक्रमेण संजातभवत्साक्षात्कारस्य
> सच्चिदानन्दघनस्त्वमेकः, नतु त्वदतिरिक्तं किंचिदिति वोधः समुदेतीति
> तत्त्वनिर्णय इति भावः। एतेन 'तत्त्वमसि' इत्याद्युपनिषदार्थोपि संगृहीत इति
> ञेयम् । योक्तेति संबन्धेऽण् । युक्त्यन्तरं ग्रन्थान्तरात्सुधिया बोद्धव्यम्
> । विस्तरभयादत्र न लिखितम् ॥
>
> श्रीहरिहरार्पणमस्तु
>
> गुरुचरणकृपा
> रामस्वामि शर्मा
> वैदिकसत्सङ्गः
>
> vedicsatsang.org
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list